Monday 16 December 2013

|| श्री गणपती स्तोत्र ||

|| श्री गणपती स्तोत्र ||

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम ||
भक्तावासं स्मरेन्नित्यमायु:कामार्थसिद्धये || १ ||
प्रथमं वक्रतुंडं च एकदंतं द्वितीयकम ||
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम || २ ||
लंबोदरं पंचमं च षष्ठं विकटमेव च ||
सप्तमं विघ्नराजेंद्रं धूम्रवर्णं तथाष्टमम || ३ ||
नवमं भालचंद्रं च दशमं तु विनायकम ||
एकादशं गणपतिं द्वादशं तु गजाननम || ४ ||
द्वादशितानि नामानि त्रिसंध्यं यः पठेन्नरः ||
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो || ५ ||
विद्यार्थी लभते विध्यां धनार्थी लभते धनम ||
पुत्रार्थी लभते पुत्रन मोक्षार्थी लभते गतिम || ६ ||
जपेद्गणपतिस्तोत्रं षडभिर्मासै: फलं लभेत ||
संवत्सरेण सिद्धिं च लभते नात्र संशय: || ७ ||
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत ||
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: || ८ ||
इति श्रीनारदपुराणे संकटनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम ||